DT240 scaled Mechanic37.in

 

 

 

 

 

Nataraja Ashtakam in Hindi – श्री नटराजाष्टकम् 

कुञ्जरचर्मकृताम्बरमम्बुरुहासनमाधवगेयगुणं
शङ्करमन्तकमानहरं स्मरदाहकलोचनमेणधरम् ।
साञ्जलियोगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं
मञ्जुलशिञ्जितरञ्जितकुञ्चितवामपदं भज नृत्यपतिम् ॥ १ ॥

पिङ्गलतुङ्गजटावलिभासुरगङ्गममङ्गलनाशकरं
पुङ्गववाहमुमाङ्गधरं रिपुभङ्गकरं सुरलोकनतम् ।
भृङ्गविनीलगलं गणनाथसुतं भज मानस पापहरं
मङ्गलदं वररङ्गपतिं भवसङ्गहरं धनराजसखम् ॥ २ ॥

पाणिनिसूत्रविनिर्मितिकारणपाणिलसड्डमरूत्थरवं
माधवनादितमर्दलनिर्गतनादलयोद्धृतवामपदम् ।
सर्वजगत्प्रलयप्रभुवह्निविराजितपाणिमुमालसितं
पन्नगभूषणमुन्नतसन्नुतमानम मानस साम्बशिवम् ॥ ३ ॥

चण्डगुणान्वितमण्डलखण्डनपण्डितमिन्दुकलाकलितं
दण्डधरान्तकदण्डकरं वरताण्डवमण्डितहेमसभम् ।
अण्डकराण्डजवाहसखं नम पाण्डवमध्यममोदकरं
कुण्डलशोभितगण्डतलं मुनिवृन्दनुतं सकलाण्डधरम् ॥ ४ ॥

व्याघ्रपदानतमुग्रतरासुरविग्रहमर्दिपदाम्बुरुहं
शक्रमुखामरवर्गमनोहरनृत्यकरं श्रुतिनुत्यगुणम् ।
व्यग्रतरङ्गितदेवधुनीधृतगर्वहरायतकेशचयं
भार्गवरावणपूजितमीशमुमारमणं भज शूलधरम् ॥ ५ ॥

आसुरशक्तिविनाशकरं बहुभासुरकायमनङ्गरिपुं
भूसुरसेवितपादसरोरुहमीश्वरमक्षरमुक्षधृतम् ।
भास्करशीतकराक्षमनातुरमाश्वरविन्दपदं भज तं
नश्वरसंसृतिमोहविनाशमहस्करदन्तनिपातकरम् ॥ ६ ॥

भूतिकरं सितभूतिधरं गतनीतिहरं वरगीतिनुतं
भक्तियुतोत्तममुक्तिकरं समशक्तियुतं शुभभुक्तिकरम् ।
भद्रकरोत्तमनामयुतं श्रुतिसामनुतं नम सोमधरं
स्तुत्यगुणं भज नित्यमगाधभवाम्बुधितारकनृत्यपतिम् ॥ ७ ॥

शूलधरं भवजालहरं निटिलाग्निधरं जटिलं धवलं
नीलगलोज्ज्वलमङ्गलसद्गिरिराजसुतामृदुपाणितलम् ।
शैलकुलाधिपमौलिनतं छलहीनमुपैमि कपालधरं
कालविषाशमनन्तमिलानुतमद्भुतलास्यकरं गिरिशम् ॥ ८ ॥

चित्तहरातुलनृत्तपतिप्रियवृत्तकृतोत्तमगीतिमिमां
प्रातरुमापतिसन्निधिगो यदि गायति भक्तियुतो मनसि ।
सर्वसुखं भुवि तस्य भवत्यमराधिपदुर्लभमत्यधिकं
नास्ति पुनर्जनिरेति च धाम स शाम्भवमुत्तममोदकरम् ॥ ९ ॥

इति श्री नटराजाष्टकम् ।

By Ajay Singh

Hello i me a Automobile Engineer

Leave a Reply

Your email address will not be published. Required fields are marked *

Mahindra Scorpio N & Thar waiting period Toyota Supra For Sale the Museum of Illusions in New York World of AI magination ARTECHOUSE NYC करीना कपूर का खाद्य संबंधी प्रेम